7. श्यामात्रिवृत्कल्पः — Śyāmā-Trivṛt Kalpa (Pharmaceutics of Śyāmā and Trivṛt)7 / 12
×

7. श्यामात्रिवृत्कल्पः — Śyāmā-Trivṛt Kalpa (Pharmaceutics of Śyāmā and Trivṛt)

Opening, Synonyms, Pharmacological Character and Two Root Types

Caraka Saṃhitā, Kalpasthāna 7.1–9

अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिणः तस्याः संज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते ॥३॥
त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा सर्वानुभूतिः सुवहा शब्दाः पर्यायवाचकाः ॥४॥
कषाया मधुरा रूक्षा विपाके कटुका च सा कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी ॥५॥
सेदानीमौषधैर्युक्ता वातपित्तकफापहैः कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत् ॥६॥
मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् ॥७॥
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम् मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत् ॥८॥
तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः ॥९॥

Trivṛt root is declared the foremost purgative. Synonyms, qualities, actions and formulations are introduced. The drug is astringent-sweet, dry and pungent after digestion; it pacifies kapha and pitta but can aggravate vāta through dryness. Two root varieties are distinguished—dark Śyāmā and reddish Trivṛt. The reddish root is preferred for delicate persons, children, the elderly and those with a soft bowel, whereas Śyāmā is faster and stronger and is reserved for patients with abundant doṣas and a hard bowel.

Collection, Preparation of the Root and Basic Administration

Caraka Saṃhitā, Kalpasthāna 7.10–13

गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत् उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः ॥१०॥
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत् तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत् ॥११॥
स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषितः सुखम् अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत् ॥१२॥
गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकैः प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत् ॥१३॥

The root is collected from suitable soil by a purified person observing the prescribed ritual discipline. The deep, smooth, non-transversely spreading root is split; the inner core is removed and the bark is dried and stored. After oleation and sudation, the patient receives a measured bolus with an acidic vehicle. Additional vehicles include the urines of cow, sheep, goat or buffalo, Sauvīraka, Tuṣodaka, clear fermented liquor and Triphalā decoction.

Powder Combinations for Doṣa-specific Purgation

Caraka Saṃhitā, Kalpasthāna 7.14–22

एकैकं सैन्धवादीनां द्वादशानां सनागरम् त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत् ॥१४॥
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा ॥१५॥
मुस्तं हैमवती पथ्या चित्रको रजनी वचा स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक् ॥१६॥
एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम् मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत् ॥१७॥
जीवकर्षभकौ मेदां श्रावणीं कर्कटाह्वयाम् मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा ॥१८॥
काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत् ॥१९॥
वातपित्तहितान्येतान्यन्यानि तु कफानिले क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक् ॥२०॥
सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत् लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम् ॥२१॥
अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत् चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते ॥२२॥

Trivṛt is combined with selected salts, dry ginger and a wide series of pungent or digestive drugs and administered with warm water, cow urine, Madhuka, sugar water or other vehicles. Gentle vāta-pitta-oriented combinations use nourishing drugs and juices such as milk, meat soup, sugarcane, Kāśmarya, grapes and Pīlu. Other formulations combine the powder with ghee, honey, sugar, Ajagandhā, Tugākṣīrī and Vidārī to obtain effective but appropriately moderated purgation.

Linctuses and Palatable Preparations for Pitta or Kapha Predominance

Caraka Saṃhitā, Kalpasthāna 7.23–35

सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः श्यामात्रिवृत्कषायेण कल्केन च सशर्करम् ॥२३॥
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे ॥२४॥
क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह मात्रया लेहयेदेतदीश्वराणां विरेचनम् ॥२५॥
कुडवांशान् रसानिक्षुद्राक्षापीलुपरूषकात् सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत् ॥२६॥
तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित् एतदुत्सन्नपित्तानामीश्वराणां विरेचनम् ॥२७॥
शर्करामोदकान् वर्गीर्गुलिकामांसपूपकान् अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम् ॥२८॥
पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम् ॥२९॥
मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात् सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत् ॥३०॥
सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम् पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत् ॥३१॥
त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम् ॥३२॥
पानकानि रसान् यूषान्मोदकान् रागषाडवान् अनेन विधिना कुर्याद्विरेकार्थं कफाधिके ॥३३॥
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत् ॥३४॥
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च नरेषु सुकुमारेषु निरपायं विरेचनम् ॥३५॥

For sannipāta with fever, stiffness, burning and thirst, Śyāmā-Trivṛt decoction and paste are processed with sugar as a linctus. Additional elegant preparations for patients of means use honey, sugar, cinnamon-leaf-spice combinations and fruit juices. Pitta-oriented preparations include sugar confections, modakas, pills and meat-pūpas; kapha-oriented linctuses use Pippalī, Nāgara, alkali and Śyāmā-Trivṛt. Drinks, soups, modakas and raga-ṣāḍavas are adapted to kapha predominance. A mild, low-risk tarpaṇa is described for delicate persons and patients with weak digestive fire.

Modakas and Guḍa Preparations with Broad Therapeutic Use

Caraka Saṃhitā, Kalpasthāna 7.36–55

शर्करात्रिफलाश्यामात्रिवृत्पिप्पलिमाक्षिकैः मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः ॥३६॥
त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ॥३७॥
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम् ॥३८॥
गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम् कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ॥३९॥
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान् मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ॥४०॥
लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक् तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ॥४१॥
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान् ॥४२॥
गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ॥४३॥
अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम् कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान् ॥४४॥
ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ॥४५॥
व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम् ॥४६॥
त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम् चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसंमिताः ॥४७॥
भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम् मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये ॥४८॥
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिनः योगः सर्वविषाणां च मतः श्रेष्ठो विरेचने ॥४९॥
मूत्रजानां च रोगाणां विधिज्ञेनावचारितः पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम् ॥५०॥
दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम् त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली ॥५१॥
समूला पिप्पली मुस्तमजमोदा दुरालभा कार्षिकं नागरपलं गुडस्य पलविंशतिम् ॥५२॥
चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान् हिङ्गुसौवर्चव्योषयवानीबिडजीरकैः ॥५३॥
वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः ॥५४॥
त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम् हिक्काकासारुचिश्वासकफोदावर्तिनां शुभाः ॥५५॥

Several modaka and guḍa preparations combine Trivṛt with Triphalā, Pippalī, Viḍaṅga, alkalis, salts, spices, sesame oil, Āmalaka juice and jaggery. They are presented as purificatory preparations useful across a broad range of conditions such as gulma, splenic and abdominal disease, dyspnoea, hālīmaka, anorexia, urinary difficulty, fever, vomiting, cough, pāṇḍu and low digestive power. The Kalyāṇaka-guḍa and related pill formulations are designed to be effective while requiring little dietary restriction.

Seasonal and General Purgative Formulations

Caraka Saṃhitā, Kalpasthāna 7.56–64

त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम् क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम् ॥५६॥
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये ॥५७॥
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम् स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत् ॥५८॥
शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम् त्रिवृत्त्रायन्तिहपुषाः सातलां कटुरोहिणीम् ॥५९॥
स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम् एष सर्वर्तुको योगः स्निग्धानां मलदोपहृत् ॥६०॥
त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम् ॥६१॥
सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः पिबेत् सुखतमं ह्येतद्रक्षाणामपि शस्यते ॥६२॥
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम् सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात् ॥६३॥
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत् गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम् ॥६४॥

Specific combinations are assigned to the rainy season, the end of the rains, winter and summer, while one formulation processed in cow urine is described as suitable throughout the year in properly oleated patients. Other convenient powders are taken with ghee, meat soup, warm water, wine or acidic liquids according to constitution and disorder, especially for gulma and pain in the flanks.

Powders, Ghee, Milk, Fermented Preparations and Dietary Vehicles

Caraka Saṃhitā, Kalpasthāna 7.65–74

त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम् कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे ॥६५॥
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम् ॥६६॥
श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः ॥६७॥
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ॥६८॥
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत् पादशेषं कषायं तं पूतं गुडतुलायुतम् ॥६९॥
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः प्रलिप्ते विधिना मासं जातं तन्मात्रया पिबेत् ॥७०॥
ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम् सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम् ॥७१॥
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा आसुतं षडहं पल्ले जातं सौवीरकं पिबेत् ॥७२॥
भृष्टान् वा सतुषान् क्षुण्णान् यवांस्तच्चूर्णसंयुतान् आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम् ॥७३॥
तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश त्रिवृच्चूर्णेन संयोज्य विरेकार्थं प्रयोजयेत् ॥७४॥

Trivṛt is combined with Triphalā, Dantī, Saptalā, spices and rock salt and impregnated with Āmalaka juice for use in tarpaṇa, soups, meat preparations and raga. Ghee and milk preparations of Śyāmā-Trivṛt are described, as are fermented formulations, Sauvīraka and Tuṣodaka. Ten preparations analogous to the ṣāḍava group previously described under Madanaphala are adapted for purgation with Trivṛt powder.

Supportive Measures During Purgation

Caraka Saṃhitā, Kalpasthāna 7.75–76

त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि ॥७५॥
शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम् ॥७६॥

Purgative formulations may be made more acceptable with aromatic, sweet, sour and preferred liquids. After administration, cool water may be sprinkled on the face to suppress vomiting, and pleasant earth, flowers, fruits, tender shoots or sour substances may be offered for smelling when appropriate.

Enumeration of Śyāmā-Trivṛt Preparations

Caraka Saṃhitā, Kalpasthāna 7.77–80

एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश ॥७७॥
क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः ॥७८॥
चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु ॥७९॥
श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम् शतं दशोत्तरं सिद्धं योगानां परमर्षिणा ॥८०॥

The concluding verses enumerate the preparations across acidic vehicles, salts, urine, Madhuka, nourishing drugs, milk and meat juices, linctuses, sugar preparations, drinks, seasonal formulations, modakas, ghee, milk, powders, tarpaṇa, fermented liquids, kāñjika and ṣāḍava-type preparations. The chapter states a total of one hundred and ten Śyāmā-Trivṛt formulations.

Colophon

Caraka Saṃhitā, Kalpasthāna — Chapter 7 Colophon

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः ॥७॥

Thus ends the seventh chapter of Kalpa Sthāna, entitled Śyāmā-Trivṛt Kalpa, in the treatise of Agniveśa as redacted by Caraka, the unavailable portion having been completed by Dṛḍhabala.

Ask & Learn