1. मदनकल्पः — Madana Kalpa (Pharmaceutics of Madanaphala)1 / 12
×

1. मदनकल्पः — Madana Kalpa (Pharmaceutics of Madanaphala)

Opening

Caraka Saṃhitā, Kalpasthāna 1.1–2

अथातो मदनकल्पं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥

Now the pharmaceutics of Madana is explained. Thus spoke the revered Ātreya.

Purpose of Kalpa Sthāna and Mechanism of Evacuative Therapy

Caraka Saṃhitā, Kalpasthāna 1.3–5

अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश ॥३॥
तत्र दोषहरणमूर्ध्वभागं वमनसंज्ञकम् अधोभागं विरेचनसंज्ञकम् उभयं वा शरीरमलविरेचनाद्विरेचनसंज्ञां लभते ॥४॥
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतं दोषसंघातमाग्नेयत्वाद् विष्यन्दयन्ति तैक्ष्ण्याद् विच्छिन्दन्ति स विच्छिन्नः परिप्लवन् स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते उभयतश्चोभयगुणत्वात् । इति लक्षणोद्देशः ॥५॥

Kalpa Sthāna is taught to explain the preparation, differentiation, administration and convenient use of emetic and purgative medicines. Evacuation through the upper route is termed vamana and that through the lower route virecana; in a broader sense both remove accumulated bodily impurities. Hot, sharp, subtle, rapidly spreading and dispersing medicines reach the heart and channels, liquefy and detach the accumulated doṣas, bring them toward the gastrointestinal tract and expel them upward or downward according to their elemental predominance and specific action.

Selection, Collection, Storage and Doṣa-specific Use of Evacuative Drugs

Caraka Saṃhitā, Kalpasthāna 1.6–12

तत्र फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनानां श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनां च नानाविधदेशकालसंभवास्वादरसवीर्यविपाकप्रभावग्रहणाद्देहदोषप्रकृतिवयोबलाग्निभक्तिसात्म्यरोगावस्थादीनां नानाप्रभाववत्त्वाच्च विचित्रगन्धवर्णरसस्पर्शानामुपयोगसुखार्थमसंख्येयसंयोगानामपि च सतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः ॥६॥
तानि तु द्रव्याणि देशकालगुणभाजनसंपद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति ॥७॥
त्रिविधः खलु देश आङ्गलः आनूपः साधारणश्चेति । तत्र जाङ्गलः पर्याकाशभूयिष्ठः तरुभिरपि च कदरखदिरासनाश्वकर्णधवतिनिशशल्लकीशालसोमवल्कबदरीतिन्दुकाश्वत्थवटामलकीवनगहनः अनेकशमीककुभशिंशपाप्रायः स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः लावतित्तिरिचकोरानुचरितभूमिभागः वातपित्तबहुलः स्थिरकठिनमनुष्यप्रायो ज्ञेयः अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः सरित्समुद्रपर्यन्तप्रायः शिशिरपवनबहुलः वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः क्षितिधरनिकुञ्जोपशोभितः मन्दपवनानुवीजितक्षितिरुहगहनः अनेकवनराजीपुष्पितवनगहनभूमिभागः स्निग्धतरुप्रतानोपगूढः हंसचक्रवाकबलाकानन्दीमुखपुण्डरीककादम्बमद्गुभृङ्गराजशतपत्रमत्तकोकिलानुनादिततरुविटपः सुकुमारपुरुषः पवनकफप्रायो ज्ञेयः अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो ज्ञेयः ॥८॥
तत्र देशे साधारणे जाङ्गले वा यथाबलं शिशिरातपपवनसलिलसेविते समं शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवयजनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके वा मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते ॥९॥
तत्र यानि कालजातान्युपागतसंपूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्धवर्णरसस्पर्शप्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां शरदि त्वक्कन्दक्षीराणि हेमन्ते साराणि यथर्तु पुष्पफलमिति मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः संपूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात् ॥१०॥
गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषु प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु अग्निसलिलोपस्वेदधूमरजोमूषकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत् ॥११॥
तानि च यथादोषं प्रयुञ्जीत सुरासौवीरकतुषोदकमैरेयमेदकधान्याम्लफलाम्लदध्यम्लादिभिर्वाते मृद्वीकामलकमधुमधुकपरूषकफाणितक्षीरादिभिः पित्ते श्लेष्मणि तु मधुमूत्रकषायादिभिर्भावितान्यालोडितानि च इत्युद्देशः । तं विस्तरेण द्रव्यदेहदोषसात्म्यादीनि प्रविभज्य व्याख्यास्यामः ॥१२॥

The text announces six hundred evacuative formulations from six principal emetic and several purgative drugs, because their action varies with habitat, season, taste, potency, post-digestive effect, specific action, patient constitution, age, strength, digestive power, habituation and stage of disease. Drugs are most effective when collected from a suitable region and season, from clean and healthy ground, at the proper maturity and with appropriate ritual purity. Plant parts are collected according to season, stored in clean protected vessels and used with different media according to doṣa: sour-fermented preparations are useful in vāta, sweet and cooling media in pitta, and honey, urine and astringent decoctions in kapha.

Collection and Processing of Madanaphala; General Vamana Procedure

Caraka Saṃhitā, Kalpasthāna 1.13–15

वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते अनपायित्वात् । तानि वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते । यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि तानि प्रमृज्य कुशपुटे बद्ध्वा गोमयेनालिप्य यवतुषमाषशालिकुलत्थमुद्गपलानामन्यतमे निदध्यादष्टरात्रम् । अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत् । सुशुष्काणां फलपिप्पलीरुद्धरेत् । तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं शिक्येष्वासज्य सम्यक् स्थापयेत् ॥१३॥
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरसक्षीरदधिमाषतिलशाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां पीतवन्तं तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पीप्रत्यकपुष्पीकषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत् ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते रसायनमिवर्षीणां देवानाममृतं यथा सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते इत्येवमभिमन्त्र्योदङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात् तेन साधु वमति हीनवेगं तु पिप्पल्यामलकसर्षपवचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात् । इत्येष सर्वश्छर्दनयोगविधिः ॥१४॥
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात् । न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च ॥१५॥

Madanaphala is regarded as the best emetic because of its relative safety. Mature, sound fruits are collected at the proper season, softened, dried, and the seed-like fruit-pippalīs are separated, processed with ghee, curd, honey and sesame paste, dried again and stored carefully. Before vamana, the patient is prepared with oleation and sudation and kapha is deliberately mobilized with suitable foods. The Madanaphala dose is soaked in Yaṣṭimadhu or other prescribed decoctions, strained, mixed with honey and rock salt, warmed and administered after appropriate rites. Vomiting is continued until pitta appears; if the response is weak it may be stimulated with Pippalī, Āmalaka, mustard, Vacā, salt and warm water. Honey and rock salt are advised in emetic preparations to liquefy and break up kapha.

Madanaphala Formulations: Pills, Milk Preparations, Butter, Inhalation and Linctus

Caraka Saṃhitā, Kalpasthāna 1.16–20

फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां हरीतकीभिर्बिभीतकैरामलकैर्वा तुल्यां वर्तयेत् तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण ॥१६॥
फलपिप्पलीक्षीरं तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे इति समानं पूर्वेण ॥१७॥
फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्कदेहं च मात्रया पाययेदिति समानं पूर्वेण ॥१८॥
फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि संजातं बृहत्सरोरुहं सायाह्नेऽवचूर्णयेत् तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृशरक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत्सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण ॥१९॥
फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत् आतपशुष्कं वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण ॥२०॥

Madanaphala is prepared in multiple forms to suit disease, doṣa and patient tolerance. Pills made after repeated processing with appropriate decoctions are used in heavy kapha disorders. Milk, milk-gruel, curd, cream and medicated butter preparations are selected when pitta, bleeding, burning or dryness coexist. For delicate patients who dislike medicines, finely processed powder may be placed on a lotus and administered by inhalation after suitable food. Concentrated juice may be made into a linctus, while sun-dried powder may be given with decoctions when pitta is lodged in a kapha site.

Madanaphala Formulations: Wicks, Linctuses, Modakas, Utkarikā, Śaṣkulī, Pūpa and Dietary Vehicles

Caraka Saṃhitā, Kalpasthāna 1.21–26

फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः पेया इति समानं पूर्वेण ॥२१॥
फलपिप्पलीनामारग्वधवृक्षकस्वादुकण्टकपाठापाटलाशाङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूचीसोमवल्कद्वीपिकानां पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण ॥२२॥
फलपिप्पलीष्वेलाहरेणुकाशतपुष्पाकुस्तुम्बुरुतगरकुष्ठत्वक्चोरकमरुबकागुरुगुग्गुल्वेलवालुकश्रीवेष्टकपरिपेलवमांसीशैलेयकस्थौणेयकसरलपरावतपद्यशोकरोहिणानां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन मोदका वा मोदककल्पेन यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण ॥२३॥
फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः पूपकल्पेन वा पूपाः इति समानं पूर्वेण ॥२४॥
एतेनैव च कल्पेन सुमुखसुरसकुठेरककाण्डीरकालमालकपर्णासकक्षवकफणिज्झकगृञ्जनकासमर्दभृङ्गराजानां पोटक्षुवालिकाकालङ्कतकदण्डैरकाणां चान्यतमस्य कषायेण कारयेत् ॥२५॥
तथा बदरषाडवरागलेहमोदकोत्कारिकातर्पणपानकमांसरसयूषमद्यानां मदनफलान्यन्यतमेनोपसृज्य यथादोषरोगभक्ति दद्यात् तैः साधु वमतीति ॥२६॥

Further preparations include medicated wicks and drinks; linctuses prepared with decoctions of Āragvadha, Vṛkṣaka, Pāṭhā, Pāṭalā, Mūrvā, Saptaparṇa, Naktamāla, Picumarda, Paṭola, Guḍūcī and aromatic-pungent drugs; and modakas or utkarikā prepared with selected aromatic decoctions. Rice and sesame flours processed with Madanaphala are made into śaṣkulī or pūpa. Similar methods are extended to other aromatic herbs. Madanaphala may also be incorporated into ṣāḍava, rāga, linctus, modaka, utkarikā, tarpana, drinks, meat soup, vegetable soup or alcoholic preparations according to doṣa, disease and preference.

Synonyms and Enumeration of Madanaphala Preparations

Caraka Saṃhitā, Kalpasthāna 1.27–30

मदनः करहाटश्च राठः पिण्डीतकः फलम् । श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना ॥२७॥
नव योगाः कषायेषु मात्रास्वष्टौ पयोघृते पञ्च फाणितचूर्णे द्वौ घ्रेये वर्तिक्रियासु षट् ॥२८॥
विंशतिविंशतिर्लेहमोदकोत्कारिकासु च शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश ॥२९॥
दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम् योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा ॥३०॥

Madana is also known by names such as Karahāṭa, Rāṭha, Piṇḍītaka, Phala and Śvasana. The concluding verses enumerate the formulations described in the chapter—decoctions, measured doses, milk and ghee preparations, phāṇita, powders, inhalations, wicks, linctuses, modakas, utkarikās, śaṣkulīs, pūpas and other dietary preparations—amounting to one hundred and thirty-three Madanaphala combinations.

Colophon

Caraka Saṃhitā, Kalpasthāna — Chapter 1 Colophon

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्यायः ॥१॥

Thus ends the first chapter of Kalpa Sthāna, entitled Madana Kalpa, in the treatise of Agniveśa as redacted by Caraka, the unavailable portion having been completed by Dṛḍhabala.

Ask & Learn