Opening and Agniveśa’s Questions
Caraka Saṃhitā, Cikitsāsthāna 3.1–10
अथातो ज्वरचिकित्सितं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम् विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः ॥३॥
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा ॥४॥
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये प्रकृतिं च प्रवृतिं च प्रभावं कारणानि च ॥५॥
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम् व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम् ॥६॥
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम् विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक् ॥७॥
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः ॥८॥
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम् जगद्धितार्थं तत् सर्वं भगवन् वक्तुमर्हसि ॥९॥
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् ज्वराधिकारे यद्वाच्यं तत् सौम्य निखिलं शृणु ॥१०॥
Agniveśa asks Punarvasu Ātreya for a complete account of Jvara, described as the foremost and powerful disease that afflicts body, senses and mind. His questions cover its nature, origin, causes, prodromes, sites, strength, temporal features, varieties, signs of āma and mature stages, therapeutic sequence, signs of release, convalescent care, recurrence and the management of recurrent fever. Ātreya agrees to explain these points systematically.
Nature, Origin and Classical Account of Jvara
Caraka Saṃhitā, Cikitsāsthāna 3.11–27
ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च एकोऽथॐ नामपर्यायैर्विविधैरभिधीयते ॥११॥
तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः देहिनं न हि निर्दोषं ज्वरः समुपसेवते ॥१२॥
क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा ॥१३॥
इत्यस्य प्रकृतिः प्रोक्ता प्रवृत्तिस्तु परिग्रहात् निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात् ॥१४॥
द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम् दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः ॥१५॥
तपोविघ्नाशनाः कर्तुं तपोविघ्नं महात्मनः पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः ॥१६॥
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि ॥१७॥
ऋचः पशुपतेर्याश्च शैव्य आहुतयश्च याः यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान् ॥१८॥
अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम् रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः ॥१९॥
सृष्टा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम् ॥२०॥
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः ॥२१॥
अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम् तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः ॥२२॥
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः ॥२३॥
ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात् क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते ॥२४॥
तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि जन्मादौ निधने च त्वमपचारान्तरेषु च ॥२५॥
सन्तापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा ज्वरप्रभावो जन्मादौ निधने च महत्तमः ॥२६॥
प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः ॥२७॥
Jvara is designated by several synonymous terms for disease and affliction and is said to arise only when bodily or mental doṣas are involved. The chapter gives a mythic account linking its manifestation to Rudra’s wrath at Dakṣa’s sacrifice and portrays Jvara as a universal force associated with the beginning and end of embodied life. The characteristic effect is intense heat and distress, together with anorexia, thirst, body ache and cardiac discomfort; the previously described causes are then recalled.
Prodromes, Seat and Principal Classifications
Caraka Saṃhitā, Cikitsāsthāna 3.28–41
आलस्यं नयने सास्रे जृम्भणं गौरवं क्लमः ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ ॥२८॥
अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम् ॥२९॥
केवलं समनस्कं च ज्वराधिष्ठानमुच्यते शरीरं बलकालस्तु निदाने सम्प्रदर्शितः ॥३०॥
ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते ॥३१॥
द्विविधो विधिभेदेन ज्वरः शरीरमानसः पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा ॥३२॥
अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च ॥३३॥
पुनः पञ्चविधो दृष्टो दोषकालबलाबलात् सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ॥३४॥
पुनराश्रयभेदेन धातूनां सप्तधा मतः भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः ॥३५॥
शारीरो जायते पूर्वं देहे मनसि मानसः वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम् ॥३६॥
इन्द्रियाणां च वैकृत्यं ज्ञेयं सन्तापलक्षणम् वातपित्तात्मकः शीतमुष्णं वातकफात्मकः ॥३७॥
इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः योगवाहः परं वायुः संयोगादुभयार्थकृत् ॥३८॥
चाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥३९॥
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः अन्तर्वेगस्य लिङ्गानि ज्वरस्यतानि लक्षयेत् ॥४०॥
सन्तापोऽभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम् बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥४१॥
The prodromal picture includes lassitude, lacrimation, yawning, heaviness, fatigue, uncertain preference or aversion for heat, sunlight, wind, water and food, indigestion, altered taste and decline of strength and complexion. Body together with mind is stated to be the seat of Jvara, while generalized heat or distress is its defining sign. The text classifies Jvara by bodily or mental predominance, cold or hot character, internal or external intensity, natural or atypical seasonal occurrence, prognosis, periodicity, tissue location and causation, and distinguishes the clinical picture of internally dominant from externally dominant fever.
Seasonal Jvara, Prognosis and Santata Jvara
Caraka Saṃhitā, Cikitsāsthāna 3.42–60
प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति ॥४२॥
चितः शीते कफश्चैवं वसन्ते समुदीर्यते वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा ॥४३॥
सञ्चितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः ॥४४॥
प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम् अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः ॥४५॥
हेमन्ते सूर्यसन्तप्तः स वसन्ते प्रकुप्यति वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते ॥४६॥
आदानमध्ये तस्यापि वातपित्तं भवेदनु आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम् ॥४७॥
शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत् कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः ॥४८॥
प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः ॥४९॥
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ॥५०॥
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रयनाशनः सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च ॥५१॥
सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम् ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ॥५२॥
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः ॥५३॥
सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम् दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः ॥५४॥
स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम् ॥५५॥
निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः ॥५६॥
युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे स शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषतः ॥५७॥
सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः ॥५८॥
द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम् ॥५९॥
दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम् ॥६०॥
Jvara arising in the expected seasonal setting of spring or autumn is described as comparatively amenable to treatment, with accumulated Kapha predominating in spring and Pitta in autumn. Prognosis depends on the patient’s strength, doṣic burden, complications and intensity; rapidly destructive forms with delirium, dyspnoea and severe systemic involvement are dangerous. Santata Jvara is explained as a persistent form in which doṣas pervade the body and tissues; depending on purification, tissue involvement and strength, it may resolve at characteristic intervals or persist for a long time.
Periodic Fevers and Dhātu-gata Jvara
Caraka Saṃhitā, Cikitsāsthāna 3.61–83
क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम् ॥६१॥
सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम् अहोरात्रे सततको द्वौ कालावनुवर्तते ॥६२॥
कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम् अन्येद्युष्कं ज्वरं दोषो रुद्धा मेदोवहाः सिराः ॥६३॥
सप्रत्यनीको जनयत्येककालमहर्निशि दोषोऽस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ ॥६४॥
गतिर्ह्येकान्तराऽन्येद्युर्दोषस्योक्तान्यथा परैः अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम् ॥६५॥
मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम् संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम् ॥६६॥
अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः दिनद्वयं यो विश्रम्य प्रत्येति स चतुर्थकः ॥६७॥
अधिशेते यथा भूमिं बीजं काले च रोहति अधिशेते तथा धातुं दोषः काले च कुप्यति ॥६८॥
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम् चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात् ॥६९॥
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः ॥७०॥
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ॥७१॥
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः ॥७२॥
विषमज्वर एवान्यश्चतुर्थकविपर्ययः त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम् ॥७३॥
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः ॥७४॥
ऋत्वहोरात्र दोषाणां मनसश्च बलाबलात् कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते ॥७५॥
गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम् ॥७६॥
रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः दाहरागभ्रममदप्रलापा रक्तसंस्थिते ॥७७॥
अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत् ॥७८॥
स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः स्वगन्धस्यासहत्वं च मेदःस्थे ग्लानरोचकौ ॥७९॥
विरेकवमने चोभे सास्थिभेदं प्रकूजनम् विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे ॥८०॥
हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम् मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे ॥८१॥
शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः ॥८२॥
रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः अस्थिज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति ॥८३॥
The chapter differentiates Satataka, Anyedyuṣka, Tṛtīyaka and Caturthaka patterns according to periodic recurrence and the sites traversed by doṣas. It further describes variations of Tṛtīyaka and Caturthaka according to doṣic predominance. Signs of Jvara situated in rasa, rakta, māṃsa, medas, asthi, majjā and śukra are then listed, with prognosis becoming progressively more difficult as deeper tissues are involved; the text regards śukra-gata Jvara as not curable.
Dvandvaja and Sannipātaja Jvara
Caraka Saṃhitā, Cikitsāsthāna 3.84–110
हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम् ॥८४॥
शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम् कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः ॥८५॥
स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक् ॥८६॥
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम् सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ॥८७॥
मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम् ॥८८॥
लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः इत्येते द्वन्द्वजाः प्रोक्ताः सन्निपातज उच्यते ॥८९॥
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि प्राक् सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक् ॥९०॥
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक् वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे ॥९१॥
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः ॥९२॥
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना मन्दवाते व्यवस्यन्ति लिङ्ग पित्तकफोल्बणे ॥९३॥
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः वातोल्बणे स्याद्द्व्यनुगे तृष्णा कण्ठास्यशुष्कता ॥९४॥
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि ॥९५॥
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत् ॥९६॥
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम् हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम् ॥९७॥
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः हीनवाते मध्यकफे लिङ्गं पिताधिके मतम् ॥९८॥
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके ॥९९॥
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक् हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः ॥१००॥
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक् कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम् ॥१०१॥
वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोरुचिर्भ्रमः कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः ॥१०२॥
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम् क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा ॥१०३॥
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः ॥१०४॥
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् ॥१०५॥
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा ॥१०६॥
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् ॥१०७॥
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च ॥१०८॥
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः ॥१०९॥
सन्निपातज्वरोऽसाध्यःकृच्छ्रसाध्यस्त्वतोऽन्यथा निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः ॥११०॥
Characteristic combinations of Vāta-Pitta, Vāta-Kapha and Kapha-Pitta Jvara are described, followed by the numerous patterns of Sannipātaja Jvara according to relative dominance of the three doṣas. Severe Sannipāta may show alternating heat and cold, intense thirst, pain, delirium, cough, dyspnoea, disturbed vision and hearing, coated or rough tongue, scanty excretion, skin eruptions, profound weakness and delayed maturation of doṣas. A fully developed form with obstructed doṣas and extinguished digestive fire is declared incurable, while incomplete forms may remain difficult but treatable.
Āgantuka Jvara: Trauma, Emotions, Poison and Other External Causes
Caraka Saṃhitā, Cikitsāsthāna 3.111–129
संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम् आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः ॥१११॥
अभिघाताभिषङ्गाभ्यामभिचारामिशापतः शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः ॥११२॥
तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन् ॥११३॥
सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम् कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः ॥११४॥
सोऽभिषङ्गाज्ज्वरो ज्ञेयो यश्च भूताभिषङ्गजः कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयो मलाः ॥११५॥
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः भूताधिकारे व्याख्यातं तदष्टविधलक्षणम् ॥११६॥
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विंषसम्भवैः अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम् ॥११७॥
चिकित्सया विषघ्न्यैव स शमं लभते नरः अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते ॥११८॥
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम् ॥११९॥
चित्तेन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि ॥१२०॥
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा वैविध्यादभिचारस्य शापस्य च तदात्मके ॥१२१॥
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम् ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम् ॥१२२॥
शोकजे वाष्पबहुलं त्रासप्रायं भयज्वरे क्रोधजे बहुसंरम्भं भतावेशे त्वमानुषम् ॥१२३॥
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः ॥१२४॥
पश्चात्तुल्यं तु केषाश्चिदेषु कामज्वरादिषु कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम् ॥१२५॥
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम् मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम् ॥१२६॥
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति देहे वाभिहते पूर्वं वाताद्यैर्न तथा बलम् ॥१२७॥
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः ॥१२८॥
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः ॥१२९॥
Āgantuka Jvara is described in four principal causal settings, including physical injury, powerful emotional or external affliction, ritual/curse-related causes and allied influences. Trauma commonly disturbs Vāta and blood; passion, grief, fear and anger produce recognizable mental and bodily patterns, while toxic exposure may cause fainting, confusion and marked exhaustion. Although these fevers may begin from an external cause, they subsequently combine with internal doṣas; therefore both the initiating cause and the resulting doṣic pattern must be considered.
Samprāpti; Āma, Pacyamāna and Nirāma Stages; Initial Management
Caraka Saṃhitā, Cikitsāsthāna 3.130–150
रसाख्यं धतुमन्वेत्य पक्तिं स्थानान्निरस्य च स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणो बलम् ॥१३०॥
स्रोतांसि रुद्ध्वा सम्प्राप्ताः केवलं देहमुल्बणाः सन्तापमधिकं देहे जनयन्ति नरस्तदा ॥१३१॥
भवत्यत्युष्ण सर्वाङ्गो ज्वरितस्तेन चोच्यते स्रोतसां सन्निरुद्धत्वात् स्वेदं ना नाधिगच्छति ॥१३२॥
स्वस्थानात् प्रच्युते चाग्नौ प्रायस्तरुणे ज्वरे अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च ॥१३३॥
हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम् ॥१३४॥
लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम् स्तब्धसुप्तगुरुत्वं च गात्राणां बहुमूत्रता ॥१३५॥
न विड्जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम् ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥१३६॥
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् ॥१३७॥
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम् ॥१३८॥
क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत् ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् ॥१३९॥
क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले ॥१४०॥
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् ॥१४१॥
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः ॥१४२॥
पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ॥१४३॥
मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम् दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत् ॥१४४॥
स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम् मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ॥१४५॥
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान् ॥१४६॥
बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत् अनुपस्थितदोषाणां वमनं तरुणे ज्वरे ॥१४७॥
हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम् सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ॥१४८॥
दोषाः फलानामामानां स्वरसा इव सात्ययाः वमितं लङ्घितं काले यवागूभिरुपाचरेत् ॥१४९॥
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः ॥१५०॥
Doṣas displace digestive heat from its normal site, obstruct channels, enter rasa and intensify body heat, producing the typical fever state and impaired sweating and digestion. Āma Jvara is marked by anorexia, heaviness, nausea, lassitude, poor elimination and strong persistent fever; the pacyamāna stage shows intensified thirst and fever with emerging elimination, while nirāma Jvara shows hunger, lightness and softened fever. In new fever, daytime sleep, bathing, oil massage, heavy food, sexual activity, excessive exertion, anger and astringent measures are restricted. Except in depletion- and emotion-related forms, treatment begins with appropriately graded lightening measures, followed by sweating, time, thin gruels, bitter digestive agents, suitable water and, when clearly indicated, emesis.
Yavāgū, Diet Progression, Ghṛta, Milk, Śodhana and External Measures
Caraka Saṃhitā, Cikitsāsthāna 3.151–177
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः ॥१५१॥
वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये ॥१५२॥
आहारभावात् प्राणाय सरत्वाल्लाघवाय च ज्वरघ्न्योज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः ॥१५३॥
ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात् मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके ॥१५४॥
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः ॥१५५॥
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम् ॥१५६॥
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम् ॥१५७॥
योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत् तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः ॥१५८॥
धत्ते रसविशेषाणामभिज्ञत्वं करोति यत् विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत् ॥१५९॥
मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात् पाचनं शमनीयं वा कषायं पाययेद्भिषक् ॥१६०॥
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम् स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् ॥१६१॥
दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते ॥१६२॥
यः कषायःकषायः स्यात् स वर्ज्यस्तरुणज्वरे यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः ॥१६३॥
दशाहं यावदश्नीयाल्लध्वन्नं ज्वरशान्तये अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे ॥१६४॥
परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम् निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम् ॥१६५॥
न सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत् यावल्लघुत्वादशनं दद्यान्मांसरसेन च ॥१६६॥
बलं ह्यलं निग्रहाय दोषाणां बलकृच्च तत् दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम् ॥१६७॥
बद्धप्रच्युतदोषं वा निरामं पयसा जयेत् क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः ॥१६८॥
अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः ज्वरक्षीणस्य न हितं वमनं न विरेचनम् ॥१६९॥
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान् निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम् ॥१७०॥
परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत् पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत् ॥१७१॥
स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान् ज्वरे पुराणे सङ्क्षीणे कफपित्ते दृढाग्नये ॥१७२॥
रुक्षबद्धपुरीषाय प्रदद्यादनुवासनम् गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च ॥१७३॥
जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम् अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने ॥१७४॥
विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक् तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः ॥१७५॥
लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम् ॥१७६॥
त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः ॥१७७॥
Medicated thin gruels are praised in early Jvara because they are light, warm, fluid, digestive, channel-clearing and supportive of downward movement of doṣas. The text gives exceptions in which tarpana rather than yavāgū is preferred and advises gradual progression to light food, yūṣa or meat soup according to strength. Strongly astringent decoctions are avoided too early because they may arrest immature doṣas. Once doṣas are mature and Kapha has subsided, ghee may be useful; milk, purgation, nirūha and anuvāsana basti, head-cleansing procedures and external therapies are selected according to doṣa, site, chronicity and strength.
Food, Gruels, Pulses, Vegetables and Meat Soups
Caraka Saṃhitā, Cikitsāsthāna 3.178–196
येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह ॥१७८॥
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः लाजपेयां सुखजरां पिप्पलीनागरैः शृताम् ॥१७९॥
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम् ॥१८०॥
सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत् पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि ॥१८१॥
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत् ज्वरातिसारी पेयां वा पिबेत् सम्लां शृतां नरः ॥१८२॥
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः ॥१८३॥
कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत् विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम् ॥१८४॥
सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम् कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी ॥१८५॥
मृद्वीकापिप्पलीमूलचव्यामलकनागरैः पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके ॥१८६॥
बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम् अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम् ॥१८७॥
नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम् मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान् ॥१८८॥
यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत् पटोलपत्रं सफलं कुलकं पापचेलिकम् ॥१८९॥
कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम् लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान् ॥१९०॥
कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान् प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान् ॥१९१॥
ईषदम्लाननम्लान् वा रसान् काले विचक्षणः कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान् ॥१९२॥
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत् ॥१९३॥
भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित् घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत् ॥१९४॥
मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम् गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे ॥१९५॥
आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत् अन्नपानक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः ॥१९६॥
A detailed convalescent diet is prescribed using old red rice and Śaṣṭika rice, medicated gruels selected for specific symptoms, light pulses and suitable vegetables. For patients accustomed to meat, selected jāṅgala meats and their soups may be used; heavier birds are generally avoided unless Vāta has been increased by excessive lightening and the physician judges them appropriate. Warm water, and in persons accustomed to it suitably selected alcohol, may serve as adjuncts. Heavy, hot, unctuous, very sweet or strongly astringent foods are generally avoided in new fever while doṣas are still maturing.
Jvaraghna Kaṣāyas and Medicated Ghṛtas
Caraka Saṃhitā, Cikitsāsthāna 3.197–226
अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत् ॥१९७॥
सनागरं पर्पटकं पिबेद्वा सदुरालभम् किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम् ॥१९८॥
पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः ॥१९९॥
तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः कलिङ्गकाः पटोलस्य परं कटुकरोहिणी ॥२००॥
पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ ॥२०१॥
किराततिक्तममृता चन्दनं विश्वभेषजम् जुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः ॥२०२॥
कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान् सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान् ॥२०३॥
वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम् मूर्वां सातिविषां निम्बः पटोलं धन्वयासकम् ॥२०४॥
वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम् पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः ॥२०५॥
मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम् त्रायमाणामुशीरं च रिफलां कटुरोहिणीम् ॥२०६॥
पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते जात्यामलकमुस्तानि तद्वद्धन्वयवासकम् ॥२०७॥
विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत् त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम् ॥२०८॥
पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः ॥२०९॥
बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम् कोलवल्ली च योगोऽयं सन्निपातज्वरापहः ॥२१०॥
शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा गुडूची नागरं पाठा किरातं कटुरोहिणी ॥२११॥
एष शट्यादिको वर्गः सन्निपातज्वरापहः कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते ॥२१२॥
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा वत्सकस्य च बीजानि पटोलं कटुरोहिणी ॥२१३॥
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च ॥२१४॥
कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत् ॥२१५॥
ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम् ॥२१६॥
रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च यः स्यादनुबलो धातुः स्नेहवध्यः स चानिलः ॥२१७॥
कषायाः सर्व एवैते सर्पिषा सह योजितः प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः ॥२१८॥
पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा ॥२१९॥
द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका सिद्धमेतैर्घृतं सद्यो जीर्णज्वरमपोहति ॥२२०॥
क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम् अंसाभितापमग्निं च विषमं सन्नियच्छति ॥२२१॥
वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् पक्त्वा तेन कषायेण पयसा द्विगुणेन च ॥२२२॥
पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम् ॥२२३॥
बलां श्वदंष्ट्रां बृहतीं कलसीं धवनीं स्थिराम् निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम् ॥२२४॥
कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम् द्राक्षां पुष्करमूलं च मेदामामलकानि च ॥२२५॥
घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम् क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् ॥२२६॥
Numerous fever-relieving decoctions are given for digestive stimulation, doṣa maturation, thirst, anorexia, periodic fever and Sannipātaja Jvara. Repeated ingredients include Musta, Parpaṭaka, Kirātatikta, Guḍūcī, Śuṇṭhī, Paṭola, Nimba, Kaṭukarohiṇī, Triphalā and related bitter or digestive drugs, combined according to the clinical pattern. For chronic dry fever in which excessive lightening has increased Vāta, these medicines may be incorporated into ghee. Several specific medicated ghṛtas are described for old fever and associated wasting, cough, headache, flank pain and impaired digestive fire.
Vamana, Virecana, Milk Preparations, Basti and Nasya
Caraka Saṃhitā, Cikitsāsthāna 3.227–255
ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान् दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते ॥२२७॥
मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये ॥२२८॥
क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा ॥२२९॥
मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत् रसमामलकानां वा घृतभृष्टं ज्वरापहम् ॥२३०॥
लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम् ॥२३१॥
आरग्वधं वा पयसा मृद्वीकानां रसेन वा त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥२३२॥
ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम् पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः ॥२३३॥
कासाच्छ्वासाञ्छिरःशूलात्पार्श्वशूलाच्चिरजवरात् मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः ॥२३४॥
एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात् पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः ॥२३५॥
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम् वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः ॥२३६॥
सनागरं समृद्वीकं सघृतक्षौद्रशर्करम् शृतं पयः सखर्जरं पिपासाज्वरनाशनम् ॥२३७॥
चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत् ॥२३८॥
जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम् पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम् ॥२३९॥
प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान् पक्काशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु ॥२४०॥
पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः ह्रीवेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च ॥२४१॥
स्थिरा बला च तत् सर्वं पयस्यर्धोदके शतम् क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा ॥२४२॥
कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च वत्सकस्य च संयुक्तं बस्ति दद्याज्ज्वरापहम् ॥२४३॥
शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः ॥२४४॥
आरग्वधमुशीरं च मदनस्य फलं तथा चतस्रः पर्णिनीश्चैव निर्यूहमुपकल्पयेत् ॥२४५॥
प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः ॥२४६॥
गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम् स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत् ॥२४७॥
रसं जाङ्गलमांसस्य रसेन सहितं भिषक् पिप्पलीफलमुस्तानां कल्केन मधुकस्य च ॥२४८॥
ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम् ॥२४९॥
जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम् ऋद्धिं रास्नां बलां विश्वं शतपुष्पां शतावरीम् ॥२५०॥
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक् आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम् ॥२५१॥
पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम् ॥२५२॥
चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते ॥२५३॥
यदुक्तं भेषजाध्याये विमाने रोगभेषजे शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम् ॥२५४॥
यच्च नावनिकं तैलं याश्च प्राग्धूमवर्तयः मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि ॥२५५॥
When doṣas are abundant and the patient has adequate strength, purification is undertaken at the proper stage. The text gives formulations for emesis and purgation and several milk preparations for chronic fever, thirst, constipation, pain and Vāta-Pitta involvement. Once doṣas have reached the large intestine, fever-relieving nirūha and anuvāsana bastis are prescribed; after channel purification the patient becomes lighter and pain subsides. Head-cleansing, nasal oils and fumigation previously described elsewhere are also applied when indicated.
Cooling and Warming External Regimens
Caraka Saṃhitā, Cikitsāsthāna 3.256–271
अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत् यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम् ॥२५६॥
सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम् दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक् ॥२५७॥
अथ चन्दनाद्यं तैलमुपदेक्ष्यामःचन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरी-कनागपुष्पोदीच्यवन्यपद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रबिस-मृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बु-वेतसवानीरगुन्द्राककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशख-दिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थन्यग्रोधधात-कीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदार-कदलीसंवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्राव-णीरोहिणीशीतपाक्योदनपाकीकालाबलापयस्याविदारीजीवकर्षभकमेदाम-हामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशा-ल्मलीनारिकेलखर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मगुप्तामधूकानामन्येषां च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत् तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम् एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत् एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत ॥२५८॥
इति चन्दनाद्यं तैलम् मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात् ॥२५९॥
भवन्ति चात्र-पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च कदलीनां च पत्रेषु क्षौमेषु विमलेषु च ॥२६०॥
चन्दनोदकशीतेषु शीते धारागृहेऽपि वा हिमाम्बुसिक्ते सदने दाहार्तः संविशेत् सुखम् ॥२६१॥
हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च चन्दनोदकशीतानां संस्पर्शानुरसान् स्पृशेत् ॥२६२॥
स्रग्भिर्नीलोत्पलै पद्मैर्व्यजनैर्विविधैरपि शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः ॥२६३॥
नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः ॥२६४॥
प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः ॥२६५॥
शीतानि चान्नपानानि शीतान्युपवनानि च वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः ॥२६६॥
अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः–अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयक क्षेमकैलावराङ्गदलपुरतमालप-त्रभूतीकरोहिषसरलशल्लकीदेवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटला-पुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकै-रण्डशोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकप-त्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णीतिलपर्णीपीलुपर्णीमेषशृ-ङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्य-काजमोदपृथ्वीकासुमुखसुरसुकुठेरककाल–मालकपर्णासक्षवकफ-णिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहावचाबलातिबला-गुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्य-ण्डाम्लचाङ्गेरीतिलबदरकुलत्थमाषाणामेवंविधानामन्येषां चोष्णवीर्याणां य-थालाभमौषधानां कषायं कारयेत् तेन कषायेण तेषामेव च कल्केन सुरा-सौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत् तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात् तथा शीतज्वरः प्रशाम्यति एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैःप्रदेहं कारयेत् एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम् ॥२६७॥
इत्यगुर्वाद्यं तैलम् भवन्ति चात्र-त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः मात्राकालविदा युक्तः स च शीतज्वरापहः ॥२६८॥
सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम् शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः ॥२६९॥
चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम् ॥२७०॥
स्वेदनान्यन्नपानानि वातश्लेष्महराणि च शीतज्वरं जयन्त्याशु संसर्गबलयोजनात् ॥२७१॥
External management is divided according to whether the patient seeks cooling or warming. Burning heat may be relieved by repeated cooling applications, baths, sprinkling, sandal-based oil, cool rooms, water, lotus leaves, gentle breezes and other soothing sensory measures. Conversely, cold-dominant fever is treated with warming oils, the appropriate forms of sudation, warm bedding, fumigation and warm food and drink. The selection is always made according to the actual doṣic and thermal presentation rather than by a single routine.
Protection of Agni and Management of Persistent, Sannipāta and Viṣama Jvara
Caraka Saṃhitā, Cikitsāsthāna 3.272–296
वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत् ॥२७२॥
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम् ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः ॥२७३॥
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि न पचत्योदनं सम्यगनिलप्रेरितो बहिः ॥२७४॥
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम् न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु ॥२७५॥
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः ॥२७६॥
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः ॥२७७॥
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे ॥२७८॥
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम् ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम् ॥२७९॥
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान् पाययित्वा कषायं च भोजयेद्रसभोजनम् ॥२८०॥
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम् श्लेष्मलानामवातानां ज्वरोऽनुष्णः कफाधिक ॥२८१॥
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम् तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना ॥२८२॥
आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत् सामा ये ये च कफजाः कफपित्तज्वराश्च ये ॥२८३॥
लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम् ॥२८४॥
ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान् संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः ॥२८५॥
ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत् वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा ॥२८६॥
कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत् सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः ॥२८७॥
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत् ॥२८८॥
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति ॥२८९॥
शाखानुसारी रक्तस्य सोऽवसेकात् प्रशाम्यति विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः ॥२९०॥
तत्रादौ सर्पिषः पानं कफपितोत्तरो न चेत् दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते ॥२९१॥
बल्यैः सम्बृंहणैस्तस्मादाहारैस्तमुपाचरेत् कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ ॥२९२॥
आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे वातप्रधानं सर्पिर्भिर्बस्तिथिः सानुवासनैः ॥२९३॥
स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम् विरेचनेन पयसा सर्पिषा संस्कृतेन च ॥२९४॥
विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत् वमनं पाचनं रूक्षमन्नपानं विलङ्घनम् ॥२९५॥
कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः ॥२९६॥
In Vāta-dominant, exertional, chronic or injury-related fever, indiscriminate fasting is discouraged. The text explains that doṣas displace digestive heat and therefore protection of agni is central throughout treatment; overly heavy feeding while doṣas remain immature can be dangerous. Kapha-dominant and mixed fevers may require a longer lightening phase and staged emesis, purgation or basti. Severe Sannipāta may produce a painful swelling near the root of the ear, managed urgently with bloodletting, ghee and local measures. Viṣama Jvara is treated according to Vāta, Pitta or Kapha predominance with corresponding unctuous, cooling or drying strategies.
Specific Measures for Viṣama Jvara and Daivavyapāśraya
Caraka Saṃhitā, Cikitsāsthāna 3.297–315
प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः ॥२९७॥
तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत् ॥२९८॥
त्रिफलायाः कषायं वा गुडूच्या रसमेव वा नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम् ॥२९९॥
पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः ॥३००॥
उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत् सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे ॥३०१॥
आस्थापनं यापनं वा कारयेद्विषमज्वरे पयसा वृषदंशस्य शकृद्वा तदहः पिबेत् ॥३०२॥
वृषस्य दधिमण्डेन सुरया वा ससैन्धवम् पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः ॥३०३॥
पञ्चगव्यस्य पयसः पर्योगो विषमज्वरे रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम् ॥३०४॥
मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम् हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा ॥३०५॥
पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा सैन्धवं पिप्पलीनां च तण्डुलाः समनः शिलाः ॥३०६॥
नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी ॥३०७॥
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम् ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत् ॥३०८॥
मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे मणीनामोषधीनां च मङ्गल्यानां विषस्य च ॥३०९॥
धारणादगदानां च सेवनान्न भवेज्ज्वरः सोमं सानुचरं देवं समातृगणमीश्वरम् ॥३१०॥
पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात् विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम् ॥३११॥
स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम् ॥३१२॥
गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान् भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च ॥३१३॥
ब्रह्मचर्येण तपसा सत्येन नियमेन च जपहोमप्रदानेन वेदानां श्रवणेन च ॥३१४॥
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च ज्वरे रसस्थे वमनमुपवासं च कारयेत् ॥३१५॥
For recurrent Viṣama Jvara the text lists various dietary, purificatory, nasal, collyrial and fumigation measures chosen according to doṣa and strength. It also includes the classical daivavyapāśraya dimension: auspicious substances, protective measures, worship, recitation, offerings, respect for parents and teachers, brahmacarya, truthfulness, self-discipline, Vedic recitation and association with virtuous persons. These passages preserve the ritual and spiritual therapeutics of the classical text alongside rational doṣa-based treatment.
Dhātu-specific and Āgantuka Treatment; Signs of Jvara-mokṣa
Caraka Saṃhitā, Cikitsāsthāna 3.316–330
सेकप्रदेहौ रक्तस्थे तथा संशमनानि च विरेचनं सोपवासं मांसमेदः स्थिते हितम् ॥३१६॥
अस्थिमज्जगते देया निरूहाः सानुवासनाः शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः ॥३१७॥
दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः ॥३१८॥
रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः सानाहो मद्यसात्म्यानां मदिरारसभोजनैः ॥३१९॥
क्षतानां व्रणितानां च क्षतव्रणचिकित्सया आश्वासेनेष्टलाभेन वायोः प्रशमनेन च ॥३२०॥
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः ॥३२१॥
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः ॥३२२॥
याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः ॥३२३॥
तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत् स्मृतिम् ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः ॥३२४॥
प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि विसञ्ज्ञो ज्वरवेगार्तः सक्रोध इव वीक्ष्यते ॥३२५॥
सदोषशब्दं च शकृद्द्रवं स्रवति वेगवत् लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः ॥३२६॥
बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम् ॥३२७॥
कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम् ॥३२८॥
विगतक्लमसन्तापमव्यथं विमलेन्द्रियम् युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम् ॥३२९॥
सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत् ॥३३०॥
Treatment is adapted to tissue location: fasting and emesis are mentioned for rasa involvement, local cooling and soothing measures for rakta, purgation for māṃsa and medas, and basti for deeper asthi-majjā involvement. Fever due to curse, ritual influence or bhūta is assigned daivavyapāśraya treatment, whereas traumatic fever is managed with ghee, bloodletting when appropriate, suitable alcohol or nourishing meat-rice preparations and wound treatment. Emotional fevers are treated by reassurance and by counteracting the dominant mental state. The text then gives signs accompanying release of fever and the features of a truly afebrile patient: relief from fatigue and heat, absence of pain, clear senses and restoration of normal mental state.
Convalescence, Prevention of Recurrence and Chapter Summary
Caraka Saṃhitā, Cikitsāsthāna 3.331–346
व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च तथा ज्वरः शमं याति प्रशान्तो जायते न च ॥३३१॥
व्यायामं च व्यवायं च स्नानं चङ्कमणानि च ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥३३२॥
असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः ॥३३३॥
दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते स्वल्पेनाप्यपचारेण तस्य व्यावर्तते पुनः ॥३३४॥
चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् अचिरेणैव कालेन स हन्ति पुनरागतः ॥३३५॥
अथवाऽपि परीपाकं धातुष्वेव क्रमान्मलाः यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते ॥३३६॥
दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम् कण्डूरुत्कोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम् ॥३३७॥
एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम् ॥३३८॥
निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथावलम् यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत् ॥३३९॥
मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः ॥३४०॥
अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च ॥३४१॥
गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत् ॥३४२॥
किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम् ॥३४३॥
तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः ज्वरक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम् ॥३४४॥
रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक् ॥३४५॥
तत्र श्लोकः-यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम् आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया ॥३४६॥
After fever subsides, the patient must continue to avoid heavy, channel-blocking, incompatible or unaccustomed food, excessive eating, sexual activity, vigorous exercise and bathing until strength is fully restored. Premature indulgence or incomplete elimination of doṣas can provoke recurrence, sometimes with oedema, pallor, anorexia, itching, eruptions and weak digestion. Recurrent fever is treated according to its current stage and strength with mild purification, basti, light soups, suitable meat broths, external measures and bitter ghee. The chapter closes by emphasizing individualized sequencing of Jvara therapy and the need for special diligence because of the disease’s powerful systemic nature.
Colophon
Colophon after Caraka Saṃhitā, Cikitsāsthāna 3.346
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने ज्वरचिकित्सितं नाम तृतीयोऽध्यायः ३
Thus ends the third chapter of Cikitsāsthāna, entitled Jvara Cikitsā, in the treatise of Agniveśa as redacted by Caraka.