1. रसायनाध्यायः — Rasāyana Adhyāya (Rejuvenative Therapy)1 / 30
×

1. रसायनाध्यायः — Rasāyana Adhyāya (Rejuvenative Therapy)

प्रथमः पादः — Abhayāmalakīya Rasāyana Pāda

Bheṣaja, Rasāyana and Vājīkaraṇa: Scope and Purpose

Caraka Saṃhitā, Cikitsāsthāna 1.1.1–15

अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
चिकित्सितं ब्याधिहरं पथ्यं साधनमौषधम्
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥३॥
विद्याद्भेषजनामानि भेषजं द्विदिधं च तत्
स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत् ॥४॥
अभेषजं च द्विविधं वाधनं सानुबाधनम्
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ॥५॥
प्रायः प्रायेण रोगानां द्वितीयं प्रशमे मतम्
प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत् ॥६॥
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ॥७॥
वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात्
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥८॥
अपत्यसंतानकरं यत् सद्यः संप्रहर्षणम्
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ॥९॥
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते
जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ॥१०॥
प्रभूतशाखः शाखीव येन चैत्यो यथा महान्
भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ॥११॥
संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥१२॥
स्वस्थस्योर्जस्करं त्वेतत् द्विविधं प्रोक्तमौषधम्
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ॥१३॥
चिकित्सितार्थ एतावान् विकाराणां यदौषधम्
रसायनविधिश्चाग्रे वाजीकरणमेव च ॥१४॥
अभेषजमिति ज्ञेयं विपरीतं यदौषधात्
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ॥१५॥

The chapter opens by defining medicine in a broad therapeutic sense and then distinguishing two principal aims. One group promotes vigour and excellence in the healthy; Rasāyana and Vājīkaraṇa belong here. The other is directed toward the alleviation of disease. Rasāyana is described as a means of obtaining longevity, memory, intellect, health, youthful quality, lustre, voice and strength, while Vājīkaraṇa is directed especially toward reproductive capacity, vitality and progeny. What acts contrary to the purpose of medicine is termed abheṣaja and is to be avoided.

Two Modes of Rasāyana and Kuṭīprāveśika Preparation

Caraka Saṃhitā, Cikitsāsthāna 1.1.16–28

रसायनानां द्विविधं प्रयोगमृषयो विदुः
कुटीप्रावेशिकं चैव वातातपिकमेव च ॥१६॥
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥१७॥
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम् ॥१८॥
विस्तारोत्सेचसंपन्नां त्रिगर्भां सूक्ष्मलोचनाम्
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥१९॥
शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम्
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ॥२०॥
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः ॥२१॥
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन् ॥२२॥
देवताः पूजयित्वाऽग्रे द्बिजातींश्च प्रदक्षिणम्
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम् ॥२३॥
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ॥२४॥
हरीतकीनां चूर्णानि सैन्धवामलके गुडम्
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ॥२५॥
पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः
तेन शुद्धशरीराय कृतसंसर्जनाय च ॥२६॥
त्रिरात्रं यावकं दद्यात् पञ्चाहं वाऽपि सर्पिषा
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ॥२७॥
शुद्धकोष्टं तु तं ज्ञात्वा रसायनमुपाचरेत्
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ॥२८॥

Two classical modes are stated: Kuṭīprāveśika, performed in a specially prepared protected chamber, and Vātātapika, performed without such seclusion. For Kuṭīprāveśika, the text emphasizes a safe and suitable place, a three-layered chamber protected from disturbing sensory influences, auspicious timing, mental discipline and appropriate attendants and medicines. Purificatory preparation and a graduated dietary restoration precede Rasāyana. The final choice of regimen is individualized according to age, constitution, habitual suitability and the person’s overall capacity.

Harītakī and Āmalakī: Qualities, Uses and Selection

Caraka Saṃhitā, Cikitsāsthāna 1.1.29–40

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्
दोषानुलोमनीं लध्वीं विद्याद्दीपनपाचनीम् ॥२९॥
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ॥३०॥
कुष्टं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ॥३१॥
हृद्रोगं सशिरोरोगमतीसारमरोचकम्
कासं प्रमेहमानाहं प्लीहानमुदरं नवम् ॥३२॥
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्
श्वयथुं तमकं छर्दिं क्लैव्यमङ्गावसादनम् ॥३३॥
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ॥३४॥
अजीर्णिनो रुक्षभुजः स्त्रीमद्यविषकर्शिताः
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये ॥३५॥
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ॥३६॥
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः
हरीतकीनां शस्यानि भिषगामलकस्य च ॥३७॥
ओषधीनां परा भूमिर्हिमवान् शैलसत्तमः
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ॥३८॥
आपूर्णरसवीर्याणि काले काले यथाविधि
आदित्यपवनच्छायासलिलप्रीणितानि च ॥३९॥
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥४०॥

Harītakī is described as light, digestive, doṣa-regulating and rejuvenative, with a very wide classical range of indications. The text also gives clear situations in which it should not be used, including marked depletion from hunger, thirst, heat, toxic exposure, excessive alcohol or sexual activity, and in persons living on very dry food. Āmalakī is credited with many comparable actions but differs in thermal potency. For Rasāyana, fruits should be fully mature, potent, undamaged and properly collected in season; Himalayan origin is praised as especially suitable.

Brahma Rasāyana: First and Second Preparations

Caraka Saṃhitā, Cikitsāsthāna 1.1.41–61

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्
हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥४१॥
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥४२॥
विल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च ॥४३॥
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्
शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥४४॥
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि ॥४५॥
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥४६॥
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥४७॥
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥४८॥
मधुकस्य हरिद्राया वचायाः कनकस्य च
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥४९॥
सितोपलासहस्रं च चूर्णितं तुलयाऽधिकम्
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः ॥५०॥
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना
ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥५१॥
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने
तिष्ठेत्संमूर्च्छितं तस्य मात्रां काले प्रयोजयेत् ॥५२॥
या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥५३॥
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः
रसायनमिदं प्राश्य बभूवुरमितायुषः ॥५४॥
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ॥५५॥
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥५६॥
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते ॥५७॥
इति ब्राह्मरसायनम्
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति ॥५८॥
भवन्ति चात्र–
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ॥५९॥
कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ॥६०॥
धरणीधरसारश्च वायुना समविक्रमः
स भवत्यविषं चास्य गात्रे संपद्यते विषम् ॥६१॥
इति द्वितीयं ब्राह्मरसायनम्

The first Brahma Rasāyana is an elaborate avaleha-type preparation built around Harītakī, Āmalakī, groups of roots and supporting herbs, with sugar, oil, ghee and honey. Its dose is explicitly limited so that it does not obstruct normal food intake; milk and Śaṣṭika rice are advised after digestion. A second Brahma Rasāyana uses extensively processed Āmalakī with numerous herbs and small quantities of mineral powders. Both are presented as highly potent rejuvenative procedures associated with longevity, strength, memory, sensory clarity and restoration of youthful qualities.

Cyavanaprāśa

Caraka Saṃhitā, Cikitsāsthāna 1.1.62–74

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥६२॥
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी ॥६३॥
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्
विदारी वृषमूलानि काकोली काकनासिका ॥६४॥
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥६५॥
ज्ञात्वा गतरसान्येतान्यौषधन्यथ तं रसम्
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥६६॥
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥६७॥
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥६८॥
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥६९॥
कासश्वासहरश्चैव विशेषेणोपदिश्यते
क्षोणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥७०॥
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति ॥७१॥
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा ॥७२॥
मेधां स्मृतिं कान्तिमनामयत्वमायुः प्रकर्षं बलमिन्द्रियाणाम् स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥७३॥
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥७४॥
इति च्यवनप्राशः

Cyavanaprāśa is prepared from a large herbal decoction with Āmalakī as the principal fruit, followed by processing with ghee, oil, sugar and, after cooling, honey and aromatic ingredients. Its dose should not suppress the appetite for the regular meal. The text particularly associates it with cough and dyspnoea and with restoration in depleted persons, the elderly and children, while also describing benefits for voice, chest and heart disorders, strength, digestion, memory, complexion and reproductive vitality. Its name is linked to the rejuvenation of the aged sage Cyavana.

Further Āmalakī and Harītakī Rasāyana Preparations

Caraka Saṃhitā, Cikitsāsthāna 1.1.75–81

अथामलकहरीतकीनामामलकबिभीतकानां हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानां मृदाऽवलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः ॥७५॥
इति चतुर्थामलकरसायनम्
हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसंप्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसंप्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिभ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः परमायुरवाप्नुयात् ॥७६॥
इति पञ्चमो हरीतकीयोगः
हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुकशर्कराभ्यामपि च सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसंप्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विध्ना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात् त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रमश्मवत् स्थिरीभवति अधृष्यो भूतानां भवति ॥७७॥
भवन्ति चात्र–
यथाऽमराणाममृतं यथा भोगवतां सुधा
तथाऽभवन्महर्षीणां रसायनविधिः पुरा ॥७८॥
न जरां न च दौर्बल्यं नातुर्यं निधनं न च
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ॥७९॥
न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥८०॥
तत्र श्लोकः–
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः रसायनानां सिद्धानामायुर्यैरनुवर्तते ॥८१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः ॥१॥

The first pāda closes with additional intensive fruit-based Rasāyana procedures using combinations of Āmalakī, Harītakī and Bibhītaka and complex ghee preparations. These are paired with strict dietary restoration and long-term observance. The concluding verses present Rasāyana as the means by which the ancient sages maintained extraordinary longevity, vigour and spiritual discipline, and state that six established Rasāyana protocols have been described in this Abhayāmalakīya section.

द्वितीयः पादः — Prāṇakāmīya Rasāyana Pāda

Why Rasāyana Requires Correction of Diet and Lifestyle

Caraka Saṃhitā, Cikitsāsthāna 1.2.1–3

अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
प्राणकामाः शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः स्थिरसमसुविभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश्च सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां बिषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम् अतोनिमित्तं हि शिथिलीभवन्ति मांसानि विमुच्यन्ते सन्धयः विदह्यते रक्तं विष्यन्दते चानल्पं मेदः न सन्धीयतेऽस्थिषु मज्जा शुक्रं न प्रवर्तते क्षयमुपैत्योजः स एवंभूतो ग्लायति सीदति निद्रातन्द्रालस्यसमन्द्वितो निरुत्साहः श्वसिति असमर्थश्चेष्टानां शारीरमानसीनां नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच ॥३॥

Ātreya first places Rasāyana within a disciplined way of living. Repeated unsuitable, excessively sour, salty, pungent, alkaline, dry, heavy, stale or incompatible food; irregular eating; habitual day sleep, alcohol and sexual excess; excessive exertion; and persistent fear, anger, grief, greed or strain are described as causes of progressive tissue deterioration, disturbed doṣas and loss of ojas. Therefore, Rasāyana is not presented as an isolated drug course: harmful diet and behaviour are to be corrected before the rejuvenative regimen is undertaken.

Āmalakī, Vidanga and Nāgabala Preparations

Caraka Saṃhitā, Cikitsāsthāna 1.2.4–12

आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसंप्रयुक्तेन सर्पिषः साधयेदाढकम् अतः परं विदारीस्वरसेन जीवन्तीकल्कसंप्रयुक्तेन अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसंप्रयुक्तं सौवर्णे राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत् तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति अप्रतिहतगतिः स्त्रीषु अपत्यवान् भवतीति ॥४॥
भवतश्चात्र–
बृहच्छरीरं गिरिसारसारम् स्थिरेन्द्रियं चातिबलेन्द्रियं च अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ॥५॥
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी भवत्यपत्यम् विपुलं स्थिरम् च समश्नतो योगमिमं नरस्य ॥६॥
इत्यामलकघृतम्
आमलकसहस्रं पिप्पलीसहस्रसंप्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत् तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः तस्योत्तरकालमग्निबलसमां मात्रां खादेत् पौर्वाह्णिकः प्रयोगो नापराह्णिकः सात्म्यापेक्षश्चाहारविधिः अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥७॥
इत्यामलकावलेहः
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥८॥
इत्यामलकचूर्णम्
विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः ॥९॥
इति विडङ्गावलेहः
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत् तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्बाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम् अत ऊर्ध्वं प्रयोगः अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥१०॥
इत्यामलकावलेहोऽपरः
धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतधीर्याणि शीर्णपुराणपर्णान्यसंजातान्यपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्युद्घरेत् तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत् चूर्णीकृतानि वा पिबेत् पयसा मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् संवत्सरप्रयोगादस्यवर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥११॥
इति नागबलारसायनम्
बलातिवलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः स्वरसानामलाभे त्वयं स्वरसविधिः–चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् ॥१२॥

This group contains several highly processed Āmalakī preparations, including medicated ghee, avaleha and powders, together with a Vidanga formulation and a Nāgabala regimen. The text repeatedly links successful use with mature authenticated raw material, repeated processing, storage for a specified period, attention to digestive strength and a milk–Śaṣṭika dietary pattern. Nāgabala is collected under carefully defined habitat, maturity and seasonal conditions; a group of related plant juices is then said to be usable by the same method.

Bhallātaka Rasāyana and Conclusion of the Pāda

Caraka Saṃhitā, Cikitsāsthāna 1.2.13–23

भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत् तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीरःपूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत् तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषाऽन्तर्मुखमभ्यज्य तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि नातः परमुत्कर्षः प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः जीर्ने च ससर्पिषा पयसा शालिपष्टिकाशनमुपचारः प्रयोगान्ते च द्विस्तावत् पयसैवौपचारः तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥१३॥
इति भल्लातकक्षीरम्
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत् तेषां यः स्वरसः कुम्भं प्रपद्येत तमष्टभागमधुसंप्रयुक्तं द्विगुणघृतमद्यात् तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥१४॥
इति भल्लातकक्षौद्रम्
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण ॥१५॥
इति भल्लातकतैलम्
भल्लातकसर्पिः भल्लातकक्षीरं भल्लातकक्षौद्रं गुडभल्लातकं भल्लातकयूषः भल्लातकतैलं भल्लातकपललं भल्लातकसक्तवः भल्लातकलवणं भल्लातकतर्पणम् इति भल्लातकविधानमुक्तं भवति ॥१६॥
भवन्ति चात्र–
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥१७॥
एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत् ॥१८॥
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् ॥१९॥
इति भल्लातकविधिः
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः
रसायनै शिवैरेतैर्बभूवुरमितायुषः ॥२०॥
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च
दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः ॥२१॥
तस्मादायुः प्रकर्षार्थं प्राणकामैः सुखार्थिभिः
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः ॥२२॥
तत्र श्लोकः–
रसायनानां संयोगाः सिद्धा भूतहितैषिणा
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ॥२३॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः ॥२॥

Bhallātaka is treated as a powerful and sharp Rasāyana drug requiring careful selection of fully mature fruits, controlled storage, preparatory cooling and unctuous measures, gradual dose escalation and a protective milk–ghee diet. Several preparations are listed, and the text explicitly states that the physician must choose among them with knowledge of disease, constitution and habitual suitability. The pāda concludes by linking Rasāyana with the long life and disciplined practice of the ancient sages and states that thirty-seven established combinations have been taught in this section.

तृतीयः पादः — Karapracitīya Rasāyana Pāda

Āmalakāyasa Brahma Rasāyana

Caraka Saṃhitā, Cikitsāsthāna 1.3.1–8

अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसर्पारेपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेत् अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत् तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलक्तचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य तमनुपदग्धमुपहृत्यायसीषुपात्रीष्वास्तीर्य शोषयेत् सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत् सम्यक् तच्चूर्णमयश्चूर्णाष्टभागसंप्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति ॥३॥
भवन्ति चात्र–
एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ॥४॥
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः ॥५॥
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ॥६॥
इत्यामलकायसं ब्राह्मरसायनम्
तपसा ब्रह्मचर्येण ध्यातेन प्रशमेन च
रसायनविधानेन कालयुक्तेन चायुषा ॥७॥
स्थिता महर्षयः पूर्वं नहि किञ्चिद्रसायनम्
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ॥८॥

Hand-picked Āmalakī is repeatedly impregnated with its own juice and combined with a concentrated decoction of nourishing, strengthening and age-sustaining herbs. After careful drying and fine grinding, a measured proportion of iron powder is incorporated and the preparation is taken with honey and ghee according to digestive strength. The text presents it as a Brahma Rasāyana used by eminent sages, while stressing that Rasāyana does not succeed in a person who remains undisciplined and absorbed in incompatible worldly habits.

Kevala Āmalakī Rasāyana and Lauhādi Rasāyana

Caraka Saṃhitā, Cikitsāsthāna 1.3.9–23

संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यएन्द्रियः ॥९॥
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम् ॥१०॥
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ॥११॥
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥१२॥
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः ॥१३॥
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी ॥१४॥
इति केवलामलकरसायनम्
त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥१५॥
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत्
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥१६॥
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्
तानि चूर्णानि मधुना रसेनामलकस्य च ॥१७॥
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते
संवत्सरं निधेयानि यवपल्ले तथैव च ॥१८॥
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥१९॥
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्
एष एव च लौहानां प्रयोगः संप्रकीर्तितः ॥२०॥
नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः ॥२१॥
धीमान् यशस्वी वाक्सिद्धः श्रतधारी महाधनः
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम् ॥२२॥
अनेनैव विधानेन हेम्नश्च रजतस्य च
आयुः प्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ॥२३॥
इति लौहादिरसायनम्

Kevala Āmalakī Rasāyana is embedded in an exceptionally strict year-long discipline of milk diet, celibacy, mantra and controlled living, followed by ritual collection and consumption of Āmalakī. The following Lauhādi procedure repeatedly processes thin iron sheets in Triphalā decoction, cow urine and alkaline media until they can be reduced to a fine powder; this is matured with Āmalakī juice and honey and later taken with honey and ghee. The same general principle is extended to gold and silver. The described results are classical Rasāyana claims and presuppose the full procedural discipline stated in the text.

Aindra and Medhya Rasāyana

Caraka Saṃhitā, Cikitsāsthāna 1.3.24–31

ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ॥२४॥
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य ॥२५॥
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते ॥२६॥
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्
आयुष्यं पौष्टिकं धन्यं स्वरवर्णमसादनम् ॥२७॥
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक् ॥२८॥
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः ॥२९॥
इत्यैन्द्रं रसायनम्
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥३०॥
आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ॥३१॥
इति मेध्यरसायनानि

Aindra Rasāyana is a compound preparation intended in the classical account to promote longevity, nourishment, memory, intellect, voice and complexion. Immediately afterward, four well-known Medhya Rasāyana measures are given in a compact form: fresh juice of Maṇḍūkaparṇī, Yaṣṭīmadhuka powder with milk, the juice of Guḍūcī including root and flower, and a paste of Śaṅkhapuṣpī. All are classed as intellect-supporting Rasāyana measures, with Śaṅkhapuṣpī especially emphasized for medhā.

Pippalī Rasāyana and Pippalī Vardhamāna

Caraka Saṃhitā, Cikitsāsthāna 1.3.32–40

पश्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥३२॥
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥३३॥
प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान् ॥३४॥
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ॥३५॥
इति पिप्पलीरसायनम्
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ॥३६॥
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ॥३७॥
पिष्टास्ता बलिभिः सेव्याः शृता मध्यबलैर्नरैः
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति ॥३८॥
दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः ॥३९॥
बृंहणं स्वर्यमायुष्यं फ्लीहोदरविनाशनम्
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥४०॥
इति पिप्पलीवर्धमानं रसायनम्

Two Pippalī-based approaches are described. One uses defined small numbers of Pippalī with honey and ghee or alkali-processing and is associated with respiratory, digestive and constitutional disorders. The Vardhamāna method gradually increases and then decreases the daily number over a defined course with milk, while strength determines whether the drug is used as paste, decoction or powder. Milk, ghee and Śaṣṭika rice form the accompanying dietary pattern. The regimen is presented as nourishing, voice-promoting, age-sustaining and intellect-supporting.

Triphalā Rasāyana Variants

Caraka Saṃhitā, Cikitsāsthāna 1.3.41–47

जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके
भुक्त्वा तु मधु सर्पिर्भ्यां चत्वार्यामलकानि च ॥४१॥
प्रयोजयन् समामेकां त्रिफलाया रसायनम्
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥४२॥
इति त्रिफलारसायनम्
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्
तमहोरात्रिकं लेपं पिबेत् क्षौद्रीदकाप्लुतम् ॥४३॥
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम् ॥४४॥
इति त्रिफलारसायनमपरम्
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा
त्रिफला सितया चापि यिक्ता सिद्धं रसायनम् ॥४५॥
इति त्रिफलारसायनमपरम्
सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ॥४६॥
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी ॥४७॥
इति त्रिफलारसायनमपरम्

Several Triphalā Rasāyana forms are recorded: timed use of the three fruits around meals, overnight extraction from a newly coated iron vessel, combinations with Madhuka, Tugākṣīrī, Pippalī, honey, ghee and sugar, and a mineral-associated preparation. Their common classical purpose is long-term preservation of strength, memory, intellect and life, with reduction of age-related decline and disease susceptibility.

Śilājatu Rasāyana

Caraka Saṃhitā, Cikitsāsthāna 1.3.48–66

अनम्लं च कषायं च कटु पाके शिलाजतु
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य संभवः ॥४८॥
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत् ॥४९॥
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ॥५०॥
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ॥५१॥
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह
तत् पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ॥५२॥
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत् ॥५३॥
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥५४॥
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम् ॥५५॥
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥५६॥
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥५७॥
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ॥५८॥
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥५९॥
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥६०॥
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ॥६१॥
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च
वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत् ॥६२॥
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ॥६३॥
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥६४॥
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ॥६५॥
इति शिलाजतुरसायनम्
तत्रश्लोकः–
करप्रचितिके पादे दश षट् च महर्षिणा
रसायनानां सिद्धानां संयोगाः समुदाहताः ॥६६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः ॥१॥

Śilājatu is described as a mountain exudate associated with four metallic sources—gold, silver, copper and iron—with distinct sensory characteristics. It is repeatedly impregnated with decoctions chosen according to doṣa and may be combined with finely processed metals. Three grades of duration and three dose levels are stated. The iron-associated type is given special preference for Rasāyana. Heavy and burning foods are avoided and Kulattha is specifically prohibited in this regimen. The pāda closes by stating that sixteen established Rasāyana combinations have been presented in Karapracitīya.

चतुर्थः पादः — Āyurvedasamutthānīya Rasāyana Pāda

The Sages Return to the Himalayas and Receive Indra’s Teaching

Caraka Saṃhitā, Cikitsāsthāna 1.4.1–5

अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः सांपन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिराऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः ॥३॥
तानिन्द्रः सहस्रदृगमरगुरुरब्रवीत् — स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुवन्धं च ग्राम्यो हि वासो मूलमशस्तानां तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम् आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां प्रजापतिरश्विभ्यां प्रजापतये ब्रह्मा प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुवन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतममायुः प्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशियितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ॥४॥
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ॥५॥

The fourth pāda opens with sages who recognize that settled worldly life, unsuitable food and reduced discipline have diminished their vitality. They return to the Himalayas and are received by Indra. Indra describes Ayurveda as a teaching transmitted from Brahmā to Prajāpati, from Prajāpati to the Aśvins and from the Aśvins to himself, and now offered to the sages for their own welfare and the welfare of living beings. The narrative makes compassion, public benefit and restoration of health central to the purpose of the teaching.

Divine Himalayan Herbs and the Alternative Rasāyana

Caraka Saṃhitā, Cikitsāsthāna 1.4.6–12

अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः संक्रम्योवाच–एतत् सर्वमनुष्ठेयम् अयं च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः तद्यथा–ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी जीवन्ती पुनर्नवा नागबला स्थिरा वचा छत्रा अतिच्छत्रा मेदा मेहामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्बयश्च तरुणमनामयत्वं स्वरवर्णसंपदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः ॥६॥
इतीन्द्रोक्तं रसायनम्
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा आदित्यपर्णी नामौषधिर्या सूर्यकान्ता इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च नारीनामौषधिः अश्वबला इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा सर्पानामौषधिः सर्पाकारा सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च अजा नामौषधिः अजशृङ्गी इति विज्ञायते नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत तत्र प्रलीयते षण्मासेन पुनः संभवति तस्याजं पयः प्रत्यवस्थापनं षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं च भवति गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति ॥७॥
भवन्ति चात्र–
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः ॥८॥
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ॥९॥
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः ॥१०॥
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु ॥११॥
पर्येष्टुं ताः प्रयक्तुं वा येऽसमर्थाः सुखार्थिनः
रसायनविधिस्तेषामयमन्यः प्रशस्यते ॥१२॥

Indra lists a group of rare Himalayan herbs and attributes extraordinary rejuvenative effects to their disciplined use with milk. The narrative then describes still more exceptional “divine” herbs in mythic terms and cautions that their potency can be borne only by highly disciplined persons. Importantly, the text immediately recognizes that such herbs may be impossible to find or use and therefore introduces a more practicable alternative Rasāyana regimen for those seeking benefit without access to these extraordinary substances.

Compound Rasāyana and Choice between Kuṭīprāveśika and Vātātapika

Caraka Saṃhitā, Cikitsāsthāna 1.4.13–29

बल्यानां जीवनीयानां बृंहणीयाश्च या दश
वयसः स्थापनानां च खदिरस्यासनस्य च ॥१३॥
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ॥१४॥
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च
ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च ॥१५॥
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ॥१६॥
रसाः पृथक् पृथग् ग्राह्याः पलाशक्षार एव च
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ॥१७॥
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत् ॥१८॥
तत्रामलकचूर्णानामाढकं शतभावितम्
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥१९॥
शर्कराचूर्णपारं च प्रस्थमेकं प्रदापयेत्
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्च्छितं च तत् ॥२०॥
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते
मात्रामग्निसमां तस्य तत् ऊर्ध्वं प्रयोजयेत् ॥२१॥
हेमताम्रप्रवालानामयसः स्फटिकस्य च
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च ॥२२॥
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥२३॥
सर्वरोगप्रशमनं बृष्यमायुष्यमुत्तमम्
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् ॥२४॥
परमूर्जस्करं चैव वर्णस्वरकरं तथा
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ॥२५॥
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम् ॥२६॥
इतीन्द्रोक्तरसायनमपरम्
समर्थानामरोगाणां धीमतां नियतात्मनाम्
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ॥२७॥
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः
तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः ॥२८॥
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥२९॥

The practicable alternative is a large compound regimen prepared from strengthening, sustaining and nourishing herbs, fruit juices, milk, sesame oil and ghee, with Āmalakī, honey, sugar, Pippalī and small classical proportions of several mineral materials. The dose is matched to digestive capacity and a Śaṣṭika–milk–ghee diet accompanies the course. Kuṭīprāveśika is preferred for healthy, disciplined persons who have time and resources; Vātātapika is offered for those unable to undertake seclusion. If illness develops because the procedure has been disturbed, Rasāyana is stopped and the disorder is treated appropriately first.

Ācāra Rasāyana — Conduct as Rejuvenation

Caraka Saṃhitā, Cikitsāsthāna 1.4.30–35

सत्यवादिनमक्रोधं निवृत्तं मधमैथुनात्
अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ॥३०॥
जपशौचपरं धीरं दाननित्यं तपस्विनम्
देवगोब्राह्मणाचायगुरुवृद्धार्चने रतम् ॥३१॥
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम्
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ॥३२॥
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्
शस्ताचारमसंकीर्णमध्यात्मप्रवणेन्द्रियम् ॥३३॥
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ॥३४॥
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्
रसायनगुणात् सर्वान् यथोक्तान् स समश्नुते ॥३५॥
इत्याचाररसायनम्

Ācāra Rasāyana makes behaviour itself part of rejuvenation. The prescribed pattern includes truthfulness, freedom from anger, restraint from alcohol and sexual excess, non-violence, calm speech, cleanliness, recitation, charity, self-discipline, reverence toward teachers and elders, compassion, balanced sleep and wakefulness, suitable milk and ghee intake, awareness of place, time and measure, humility, sound conduct and an inwardly disciplined mind. A person established in these qualities is described as living in a continuous Rasāyana state and as gaining the intended benefits of properly administered Rasāyana.

Purity, Physician Dependence and Respect for the Prāṇācārya

Caraka Saṃhitā, Cikitsāsthāna 1.4.36–40

यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्
रसायनगुणैर्जन्तुर्युज्यते न कदाचन ॥३६॥
योगा ह्यायुःप्रकर्षार्था जरारोगनिवर्हणाः
मनः शरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥३७॥
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु
अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ॥३८॥
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ॥३९॥
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः ॥४०॥

Rasāyana is said to fail when gross bodily and mental impurities have not been removed. Rejuvenative measures for longevity and protection from ageing and disease are expected to succeed in disciplined persons whose mind and body have been appropriately prepared. Rasāyana, Vājīkaraṇa and disease-treatment medicines all depend on competent medical supervision; for this reason the learned life-protecting physician, the Prāṇācārya, is to be respected in the manner in which Indra honours the divine physicians, the Aśvins.

The Aśvins, the Physician’s “Second Birth,” and the Ethics of Care

Caraka Saṃhitā, Cikitsāsthāna 1.4.41–62

अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ॥४१॥
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ॥४२॥
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥४३॥
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥४४॥
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम् ॥४५॥
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥४६॥
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ॥४७॥
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः ॥४८॥
अजरैरमरैस्तावद्विबुधैः साधिपैध्रुवैः
पूज्येते प्रयतैरेवमश्विनौ भिषजाविति ॥४९॥
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः
किं पुनर्भिषजो मर्त्यैः पूज्याः स्यूर्नातिशक्तितः ॥५०॥
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः ॥५१॥
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ॥५२॥
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः ॥५३॥
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम् ॥५४॥
चिकित्सितस्तु संश्रुत्ये यो वाऽसंश्रुत्य मानवः
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ॥५५॥
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम् ॥५६॥
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम् ॥५७॥
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते ॥५८॥
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्
ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ॥५९॥
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति ॥६०॥
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते ॥६१॥
परो भूतदया धर्म इति मत्वा चिकित्सया
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते ॥६२॥

The Aśvins are praised as exemplary divine physicians whose celebrated cures establish the dignity of healing. By analogy, a learned, disciplined and scripturally trained physician is called Prāṇācārya and is to be honoured like a teacher. Completion of medical knowledge is described as a “second birth”: the title vaidya is gained through learning, not merely by birth. Ethical reciprocity is expected from patient and physician, but the physician’s duty is especially framed as protecting patients like one’s own children. The highest motive for practice is compassion for living beings rather than commerce; restoring life is praised as a supreme form of giving.

Recapitulation and Chapter Completion

Caraka Saṃhitā, Cikitsāsthāna 1.4.63–64; concluding colophon

तत्र श्लोको–
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥६३॥
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः
आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम् ॥६४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये
आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः ॥४॥
समाप्तश्चायं रसायनाध्यायः ॥१॥

The final verses state that the origin and transmission of Ayurveda, the use of extraordinary medicinal plants and the powerful Rasāyana teaching imparted by Indra to disciplined sages have been set out in this fourth pāda. With its colophon, the four-part Rasāyana Adhyāya—the first chapter of Cikitsāsthāna—is complete.

Ask & Learn