7. शरीरसङ्ख्याशारीरम् — Śarīrasaṅkhyā Śārīra (Enumeration of the Body)7 / 8
×

7. शरीरसङ्ख्याशारीरम् — Śarīrasaṅkhyā Śārīra (Enumeration of the Body)

Chapter Opening and Anatomical Aim

Caraka Saṃhitā, Śārīrasthāna 7.1–3

अथातः शरीरसङ्ख्याशारीरं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
शरीरसङ्ख्यामवयवशःकृत्स्नंशरीरंप्रविभज्य सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ ॥३॥

Agniveśa asks for a systematic account of the body’s divisions, organs, number and magnitude so that bodily organisation may be understood clearly.

Six Layers of Skin

Caraka Saṃhitā, Śārīrasthāna 7.4

तमुवाच भगवानात्रेयः- शृणु मत्तोऽग्निवेश! सर्वशरीरमाचक्षाणस्य यथा प्रश्नमेकमना यथावत् शरीरे षट् त्वचः; तद्यथा- उदकधरा त्वग्बाह्या, द्वितीया त्वसृग्धरा, तृतीया सिध्मकिलाससम्भवाधिष्ठाना, चतुर्थीदद्रूकुष्ठसम्भवाधिष्ठाना, पञ्चमी त्वलजीविद्रधिसम्भवाधिष्ठाना, षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशतियां चाप्यधिष्ठायारूंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च; इति षट् त्वच:; एताः षडङ्गं शरीरमवतत्य तिष्ठन्ति ॥४॥

Six layers of skin are described by function and the disorders that become established in them: an outer water-holding layer, a blood-holding layer, layers associated with sidhmā and kilāsa, dadru and kuṣṭha, alajī and abscess and a deep, highly painful layer in which rooted lesions are difficult to treat. Together they cover the six major divisions of the body.

Six Major Divisions and 360 Bones

Caraka Saṃhitā, Śārīrasthāna 7.5–6

तत्रायं शरीरस्याङ्गविभागः; तद्यथा- द्वौ बाहू, द्वे सक्थिनी, शिरोग्रीवम्, अन्तराधिः, इति षडङ्गमङ्गम् ॥५॥
त्रीणि सषष्टीनि शतान्यस्थ्नां सह दन्तोलूखलनखेन । तद्यथा-द्वात्रिंशद्दन्ताः, द्वात्रिंशद्दन्तोलूखलानि, विंशतिर्नखाः, षष्टिः पाणिपादाङ्गुल्यस्थीनि, विंशतिःपाणिपादशलाकाः, चत्वारि पाणिपादशलाकाधिष्ठानानि, द्वे पार्ष्ण्योरस्थिनी, चत्वारः पादयोर्गुल्फाः, द्वौ मणिकौ हस्तयोः, चत्वार्यरत्न्योरस्थीनि, चत्वारि जङ्घयोः, द्वे जानुनी, द्वे जानुकपालिके, द्वावूरुनलकौ, द्वौ बाहुनलकौ, द्वावंसौ,द्वे अंसफलके, द्वावक्षकौ, एकं जत्रु, द्वे तालुके, द्वे श्रोणिफलके, एकं भगास्थि, पञ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि,पञ्चदश ग्रीवायां, चतुर्दशोरसि, द्वयोः पार्श्वयोश्चतुर्विंशतिः पर्शुकाः, तावन्ति स्थालकानि, तावन्ति चैव स्थालकार्बुदानि, एकंहन्वस्थि, द्वे हनुमूलबन्धने, एकास्थि नासिकागण्डकूटललाटं, द्वौ शङ्खौ, चत्वारि शिरःकपालानीति; एवं त्रीणि सषष्टीनिशतान्यस्थ्नां सह दन्तोलूखलनखेनेति ॥६॥

The body has six principal divisions: two upper limbs, two lower limbs, head with neck and trunk. The classical enumeration gives 360 bones, including teeth, sockets and nails, and distributes them across digits, hands, feet, limbs, girdles, pelvis, spine, neck, thorax, ribs, jaws, face and skull.

Faculties, Consciousness, Vital Seats and Viscera

Caraka Saṃhitā, Śārīrasthāna 7.7–10

पञ्चेन्द्रियाधिष्ठानानि; तद्यथा- त्वग्, जिह्वा, नासिका, अक्षिणी, कर्णौ च। पञ्च बुद्धीन्द्रियाणि; तद्यथा- स्पर्शनं, रसनं, घ्राणं, दर्शनं, श्रोत्रमिति। पञ्च कर्मेन्द्रियाणि; तद्यथा- हस्तौ, पादौ, पायुः, उपस्थः, जिह्वा चेति ॥७॥
हृदयं चेतनाधिष्ठानमेकम्॥८॥
दश प्राणायतनानि; तद्यथा- मूर्धा, कण्ठः, हृदयं, नाभिः, गुदं, बस्तिः, ओजः, शुक्रं, शोणितं, मांसमिति। तेषु षट् पूर्वाणि मर्मसङ्ख्यातानि ॥९॥
पञ्चदश कोष्ठाङ्गानि; तद्यथा- नाभिश्च, हृदयं च, क्लोम च, यकृच्च, प्लीहा च, वृक्कौ च, बस्तिश्च, पुरीषाधारश्च,आमाशयश्च, पक्वाशयश्च, उत्तरगुदं च, अधरगुदं च, क्षुद्रान्त्रं च, स्थूलान्त्रं च, वपावहनं चेति ॥१०॥

The five sensory seats are skin, tongue, nose, eyes and ears; their faculties apprehend touch, taste, smell, form and sound. Five motor faculties govern hands, feet, elimination, reproduction and speech. The heart is the principal seat of consciousness. Ten seats of vital life and fifteen major internal organs are enumerated, providing a practical map of structures whose injury or dysfunction has grave consequences.

Fifty-Six Subparts, Nine Openings and Visible Anatomy

Caraka Saṃhitā, Śārīrasthāna 7.11–13

षट्पञ्चाशत् प्रत्यङ्गानि षट्स्वङ्गेषूपनिबद्धानि, यान्यपरिसङ्ख्यातानि पूर्वमङ्गेषु परिसङ्ख्यायमानेषु, तान्यन्यैःपर्यायैरिह प्रकाश्यानि भवन्ति। तद्यथा- द्वे जङ्घापिण्डिके, द्वे ऊरुपिण्डिके, द्वौ स्फिचौ, द्वौ वृषणौ, एकं शेफः, द्वे उखे, द्वौ वङ्क्षणौ, द्वौ कुकुन्दरौ, एकंबस्तिशीर्षम्, एकमुदरं, द्वौ स्तनौ, द्वौ श्लेष्मभुवौ , द्वे बाहुपिण्डिके, चिबुकमेकं, द्वावोष्ठौ, द्वे सृक्कण्यौ, द्वौदन्तवेष्टकौ, एकं तालु, एका गलशुण्डिका, द्वे उपजिह्विके, एका गोजिह्विका, द्वौ गण्डौ, द्वे कर्णशष्कुलिके, द्वौ कर्णपुत्रकौ,द्वे अक्षिकूटे, चत्वार्यक्षिवर्त्मानि, द्वे अक्षिकनीनिके, द्वे भ्रुवौ, एकाऽवटुः, चत्वारि पाणिपादहृदयानि ॥११॥
नव महन्ति छिद्राणि- सप्त शिरसि, द्वे चाधः ॥१२॥
एतावद्दृश्यं शक्यमपि निर्देष्टुम् ॥१३॥

The six divisions are further analysed into fifty-six named subparts of the limbs, pelvis, trunk, face and sense organs. Nine major openings are identified—seven in the head and two below. These externally demonstrable structures constitute anatomy that can be seen and counted directly.

Structures Known by Reasoned Enumeration

Caraka Saṃhitā, Śārīrasthāna 7.14

अनिर्देश्यमतः परं तर्क्यमेव। तद्यथा- नव स्नायुशतानि, सप्त सिराशतानि, द्वे धमनीशते, चत्वारि पेशीशतानि, सप्तोत्तरं मर्मशतं, द्वे सन्धिशते,एकोनत्रिंशत्सहस्राणि नव च शतानि षट्पञ्चाशत्कानि सिराधमनीनामणुशः प्रविभज्यमानानां मुखाग्रपरिमाणं, तावन्ति चैवकेशश्मश्रुलोमानीति। एतद्यथावत्सङ्ख्यातं त्वक्प्रभृति दृश्यं, तर्क्यमतः परम्। एतदुभयमपि न विकल्पते, प्रकृतिभावाच्छरीरस्य ॥१४॥

Deeper structures are estimated through observation and inference rather than claimed as absolutely fixed counts. The text gives traditional totals for ligaments, vessels, muscles, vital points, joints, fine channels and hair. These numbers serve as an organised anatomical model while acknowledging natural variation and abnormality.

Añjali Measures of Body Fluids and Tissues

Caraka Saṃhitā, Śārīrasthāna 7.15

यत्त्वञ्जलिसङ्ख्येयं तदुपदेक्ष्यामः; तत् परं प्रमाणमभिज्ञेयं, तच्च वृद्धिह्रासयोगि, तर्क्यमेव। तद्यथा- दशोदकस्याञ्जलयः शरीरे स्वेनाञ्जलिप्रमाणेन, यत्तु प्रच्यवमानं पुरीषमनुबध्नात्यतियोगेन तथा मूत्रं रुधिरमन्यांश्चशरीरधातून्, यत्तु सर्वशरीरचरं बाह्या त्वग्बिभर्ति, यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चोष्मणाऽनुबद्धं लोमकूपेभ्योनिष्पतत् स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणं; नवाञ्जलयः पूर्वस्याहारपरिणामधातोः, यं ‘रस’ इत्याचक्षते; अष्टौशोणितस्य, सप्त पुरीषस्य, षट् श्लेष्मणः, पञ्च पित्तस्य, चत्वारो मूत्रस्य, त्रयो वसायाः, द्वौ मेदसः, एको मज्जायाः,मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं, तावदेव श्लैष्मिकस्यौजस इति। एतच्छरीरतत्त्वमुक्तम् ॥१५॥

The individual’s joined palms provide the relative unit called añjali. Classical maxima are stated for body water, rasa, blood, feces, kapha, pitta, urine, muscle fat, adipose tissue, marrow, brain substance, reproductive tissue and ojas. The measure is proportional to the person and may vary with increase or decrease.

Elemental Organisation and the Innumerable Microstructure

Caraka Saṃhitā, Śārīrasthāna 7.16–17

तत्र यद्विशेषतः स्थूलं स्थिरं मूर्तिमद्गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्चःकेशश्मश्रुलोमकण्डरादि तत् पार्थिवं गन्धोघ्राणं च; यद्द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि तदाप्यं रसो रसनं च; यत् पित्तमूष्मा च यो या चभाः शरीरे तत् सर्वमाग्नेयं रूपं दर्शनं च; यदुच्छ्वासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्रेरणधारणादि तद्वायवीयं स्पर्शःस्पर्शनं च; यद्विविक्तं यदुच्यते महान्ति चाणूनि स्रोतांसि तदान्तरीक्षं शब्दः श्रोत्रं च; यत् प्रयोक्तृ तत् प्रधानं बुद्धिर्मनश्च। इति शरीरावयवसङ्ख्या यथास्थूलभेदेनावयवानां निर्दिष्टा ॥१६॥
शरीरावयवास्तु परमाणुभेदेनापरिसङ्ख्येया भवन्ति, अतिबहुत्वादतिसौक्ष्म्यादतीन्द्रियत्वाच्च। तेषां संयोगविभागे परमाणूनां कारणं वायुः कर्मस्वभावश्च ॥१७॥

Solid, stable and hard structures are predominantly earthy; fluids, softness and unctuousness watery; heat, colour and vision fiery; respiration and movement airy; cavities, channels, sound and hearing spatial. Self, mind and intellect organise perception. At the finest level the body’s particles are innumerable; their conjunction and separation depend on vāyu and the inherent course of action.

Anatomical Knowledge and Freedom from Delusion

Caraka Saṃhitā, Śārīrasthāna 7.18–20

तदेतच्छरीरं सङ्ख्यातमनेकावयवं दृष्टमेकत्वेन सङ्गः, पृथक्त्वेनापवर्गः। तत्र प्रधानमसक्तं सर्वसत्तानिवृत्तौ निवर्तते इति ॥१८॥
तत्र श्लोकौ- शरीरसङ्ख्यां यो वेद सर्वावयवशो भिषक्। तदज्ञाननिमित्तेन स मोहेन न युज्यते ॥१९॥
अमूढो मोहमूलैश्च न दोषैरभिभूयते। निर्दोषो निःस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः ॥२०॥

Knowing the body as an organisation of parts has both medical and contemplative value. Conjunction produces attachment to the embodied aggregate; clear recognition of the knower as distinct from the parts supports detachment. The physician who understands structure without delusion is better protected from error and is directed toward tranquillity beyond repeated birth.

Colophon

Traditional chapter colophon

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरसङ्ख्याशारीरं नाम सप्तमोऽध्यायः ॥७॥

Thus ends the seventh chapter, entitled Śarīrasaṅkhyā Śārīra, in Śārīrasthāna of the treatise composed by Agniveśa and revised by Caraka.

Ask & Learn